सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि। हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्। महावातसमाविष्टं महामेघौघनिःस्वनम्
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्। नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्। शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम्
अर्चितं सर्वलोकस्य सपताकं सवेदिकम्। नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा
अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम्। रामं रामानुजं चैव भर्तुश्चैव तथानुजम्
तानतीत्य समासाद्य भर्तारं निहतं रणे। समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह
सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी। रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव। विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम्
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे विंशः सर्गः ॥४-
रामचापविसृष्टेन शरेणान्तकरेण तम्। दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
सा समासाद्य भर्तारं पर्यष्वजत भामिनी। इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्
वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा। तारा तरुमिवोन्मूलं पर्यदेवयतातुरा
रणे दारुणविक्रान्त प्रवीर प्लवतां वर। किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्। नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः
अतीव खलु ते कान्ता वसुधा वसुधाधिप। गतासुरपि तां गात्रैर्मां विहाय निषेवसे
व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता। किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु। विहृतानि त्वया काले तेषामुपरमः कृतः
निरानन्दा निराशाहं निमग्ना शोकसागरे। त्वयि पञ्चत्वमापन्ने महायूथपयूथपे
हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि। यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा
सुग्रीवस्य त्वया भार्या हृता स च विवासितः। यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता। यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी
रूपयौवनदृप्तानां दक्षिणानां च मानद। नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि
कालो निःसंशयो नूनं जीवितान्तकरस्तव। बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम्
अस्थाने वालिनं हत्वा युध्यमानं परेण च। न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम्
वैधव्यं शोकसंतापं कृपणाकृपणा सती। अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः। वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्। दुर्लभं दर्शनं तस्य तव वत्स भविष्यति
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे। मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे। भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे। इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर