शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्। त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः। इत्युक्त्वा वानरो रामं विरराम हरीश्वरः
स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम्। साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम। न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम। वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः
दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते। कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः
तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः। गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना
त्यज शोकं च मोहं च भयं च हृदये स्थितम्। त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर। तथा वर्तेत सुग्रीवे मयि चापि न संशयः
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तितम्। निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः
शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो। इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-
स वानरमहाराजः शयानः शरपीडितः। प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्। रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्। निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात्
ये त्वङ्गदपरीवारा वानरा हि महाबलाः। ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः
सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम्। यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान्
तानुवाच समासाद्य दुःखितान् दुःखिता सती। रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः
वानरा राजसिंहस्य यस्य यूयं पुरःसराः। तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः
राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः। रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः। प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्। अन्तको रामरूपेण हत्वा नयति वालिनम्
क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः। वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः
अभिभूतमिदं सर्वं विद्रुतं वानरं बलम्। अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे
रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम्। पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः
अथवारुचितं स्थानमिह ते रुचिरानने। आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः
अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः। लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम्
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना। आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी
पुत्रेण मम किं कार्यं राज्येनापि किमात्मना। कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति
एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता। शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती