प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ। प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः। शासनं तव यद् युक्तं तद् भवाननुमन्यताम्
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः। वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता
शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता। श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ। गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया
राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा
शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते। राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्। श्रमणेन कृते पापे यथा पापं कृतं त्वया
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः। प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः
तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल न वयं स्ववशे स्थिताः
शृणु चाप्यपरं भूयः कारणं हरिपुंगव। तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि
न मे तत्र मनस्तापो न मन्युर्हरिपुंगव। वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान्। प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान्
प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम्। विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात् त्वं निहतो युद्धे मया बाणेन वानर। अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च। राजानो वानरश्रेष्ठ प्रदातारो न संशयः
तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्। देवा मानुषरूपेण चरन्त्येते महीतले
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः। विदूषयसि मां धर्मे पितृपैतामहे स्थितम्
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्। न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः। यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्। यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम्
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव। त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः। कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया
मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम्। धर्मसंहितया वाचा धर्मज्ञ परिपालय
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः। उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः
न चात्मानमहं शोचे न तारां नापि बान्धवान्। यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम्
स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः। तारेयो राम भवता रक्षणीयो महाबलः
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्। त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या। सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्। सुग्रीवो नावमन्येत तथावस्थातुमर्हसि
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम्। त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना