न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्। आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि। अयुक्तं यदधर्मेण त्वयाहं निहतो रणे
काममेवंविधो लोकः कालेन विनियुज्यते। क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा। समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्। परुषं वालिना रामो निहतेन विचेतसा
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्। अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्
धर्ममर्थं च कामं च समयं चापि लौकिकम्। अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्। सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि
इक्ष्वाकूणामियं भूमिः सशैलवनकानना। मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि
तां पालयति धर्मात्मा भरतः सत्यवानृजुः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्। विक्रमश्च यथा दृष्टः स राजा देशकालवित्
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः। चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले। पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम्
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः। भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः। कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति। त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः। पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम। हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः। जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते। नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः। रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्
तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर। भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः
नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः। दण्डादन्यत्र पश्यामि निग्रहं हरियूथप
न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः। औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः। भरतस्तु महीपालो वयं त्वादेशवर्तिनः
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्। गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्
भरतः कामयुक्तानां निग्रहे पर्यवस्थितः। वयं तु भरतादेशावधिं कृत्वा हरीश्वर। त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा। दारराज्यनिमित्तं च निःश्रेयस्करः स मे