तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्। तदतिक्रम्य मोहेन कालस्य वशमागतः
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा। प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना। त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्। वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः। अपकारिषु ते राम नैवं पश्यामि विक्रमम्
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज। अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनैव नरः पापवशं गतः
सुग्रीवप्रियकामेन यदहं निहतस्त्वया। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः। मैथिलीमहमेकाह्ना तव चानीतवान् भवेः
राक्षसं च दुरात्मानं तव भार्यापहारिणम्। कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्। आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि। अयुक्तं यदधर्मेण त्वयाहं निहतो रणे
काममेवंविधो लोकः कालेन विनियुज्यते। क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा। समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्। परुषं वालिना रामो निहतेन विचेतसा
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्। अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्
धर्ममर्थं च कामं च समयं चापि लौकिकम्। अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्। सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि
इक्ष्वाकूणामियं भूमिः सशैलवनकानना। मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि
तां पालयति धर्मात्मा भरतः सत्यवानृजुः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्। विक्रमश्च यथा दृष्टः स राजा देशकालवित्
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः। चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले। पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम्
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः। भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः। कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति। त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः। पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम। हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्