त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः। लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्
त्वं राघवकुले जातो धर्मवानिति विश्रुतः। अभव्यो भव्यरूपेण किमर्थं परिधावसे
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ। पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु
वयं वनचरा राम मृगा मूलफलाशिनः। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च। तत्र कस्ते वने लोभो मदीयेषु फलेषु वा
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि। राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः। राजवृत्तेषु संकीर्णः शरासनपरायणः
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता। इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्। किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः। नास्तिकः परिवेत्ता च सर्वे निरयगामिनः
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव। शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्। तदतिक्रम्य मोहेन कालस्य वशमागतः
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा। प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना। त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्। वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः। अपकारिषु ते राम नैवं पश्यामि विक्रमम्
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज। अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनैव नरः पापवशं गतः
सुग्रीवप्रियकामेन यदहं निहतस्त्वया। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः। मैथिलीमहमेकाह्ना तव चानीतवान् भवेः
राक्षसं च दुरात्मानं तव भार्यापहारिणम्। कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्। आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि। अयुक्तं यदधर्मेण त्वयाहं निहतो रणे
काममेवंविधो लोकः कालेन विनियुज्यते। क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा। समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-