आदित्यमिव कालेन युगान्ते भुवि पातितम्। महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्। व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्
लक्ष्मणानुचरो रामो ददर्शोपससर्प च। तं तथा पतितं वीरं गतार्चिषमिवानलम्
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव। उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्। अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः। अर्थसंहितया वाचा गर्वितं रणगर्वितम्
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः। पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः। यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः। इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः। पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव। तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि। इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव
स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्। जाने पापसमाचारं तृणैः कूपमिवावृतम्
सतां वेषधरं पापं प्रच्छन्नमिव पावकम्। नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्
विषये वा पुरे वा ते यदा पापं करोम्यहम्। न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम्
फलमूलाशनं नित्यं वानरं वनगोचरम्। मामिहाप्रतियुध्यन्तमन्येन च समागतम्
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः। लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्
त्वं राघवकुले जातो धर्मवानिति विश्रुतः। अभव्यो भव्यरूपेण किमर्थं परिधावसे
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ। पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु
वयं वनचरा राम मृगा मूलफलाशिनः। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च। तत्र कस्ते वने लोभो मदीयेषु फलेषु वा
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि। राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः। राजवृत्तेषु संकीर्णः शरासनपरायणः
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता। इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्। किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः। नास्तिकः परिवेत्ता च सर्वे निरयगामिनः
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव। शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः