तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ। मेघाविव महाशब्दैस्तर्जमानौ परस्परम्
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम्। प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्। स शरं वीक्षते वीरो वालिनो वधकांक्षया
ततो धनुषि संधाय शरमाशीविषोपमम्। पूरयामास तच्चापं कालचक्रमिवान्तकः
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः। प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः। राघवेण महाबाणो वालिवक्षसि पातितः
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः। वेगेनाभिहतो वाली निपपात महीतले
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले। आश्वयुक्समये मासि गतश्रीको विचेतनः। बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम्। ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः। विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-
ततः शरेणाभिहतो रामेण रणकर्कशः। पपात सहसा वाली निकृत्त इव पादपः
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः। अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः
अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे। नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी
भूमौ निपतितस्यापि तस्य देहं महात्मनः। न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता। दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा
स तया मालया वीरो हैमया हरियूथपः। संध्यानुगतपर्यन्तः पयोधर इवाभवत्
तस्य माला च देहश्च मर्मघाती च यः शरः। त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्। रामबाणासनक्षिप्तमावहत् परमां गतिम्
तं तथा पतितं संख्ये गतार्चिषमिवानलम्। ययातिमिव पुण्यान्ते देवलोकादिह च्युतम्
आदित्यमिव कालेन युगान्ते भुवि पातितम्। महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्। व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्
लक्ष्मणानुचरो रामो ददर्शोपससर्प च। तं तथा पतितं वीरं गतार्चिषमिवानलम्
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव। उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्। अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः। अर्थसंहितया वाचा गर्वितं रणगर्वितम्
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः। पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः। यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः। इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः। पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव। तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः