तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे। न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः। मर्षयिष्यामि केनापि कारणेन वरानने
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्
न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहायत्वं दर्शितं सौहृदं मयि
शापितासि मम प्राणैर्निवर्तस्व जनेन च। अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्। नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्
स निःश्वस्य महारोषो वाली परमवेगवान्। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम्। आपतन्तं महावेगमिदं वचनमब्रवीत्
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः। मया वेगविमुक्तस्ते प्राणानादाय यास्यति
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्। तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः। अभवच्छोणितोद्गारी सापीड इव पर्वतः
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा। गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः। गुरुभारभराक्रान्ता नौः ससार्थेव सागरे
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ। प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ। ततोऽवर्धत वाली तु बलवीर्यसमन्वितः
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत। वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः
वालिनं प्रति सामर्षो दर्शयामास राघवम्। वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव