स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया । सिद्धाश्रममिदं सत्यं कृतं वीर महायशः । स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-
इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः । विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-
आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा । सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् । शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-
निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-
अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-
भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-
चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-
स महात्मा कुलीनायां युक्तायां सुमहाबलान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-