धातूनामिव शैलेन्द्रो गुणानामाकरो महान्। तत् क्षमो न विरोधस्ते सह तेन महात्मना
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु। शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्। यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय
विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा। अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः। लालनीयो हि ते भ्राता यवीयानेष वानरः
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते। नहि तेन समं बन्धुं भुवि पश्यामि कंचन
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्। वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु
सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव। भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्। याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि। क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे। न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः। मर्षयिष्यामि केनापि कारणेन वरानने
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्
न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहायत्वं दर्शितं सौहृदं मयि
शापितासि मम प्राणैर्निवर्तस्व जनेन च। अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्। नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्
स निःश्वस्य महारोषो वाली परमवेगवान्। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम्। आपतन्तं महावेगमिदं वचनमब्रवीत्