वाली विनिहतो यावद्वने पांसुषु चेष्टते। यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते
ततो दोषेण मागच्छेत् सद्यो गर्हेच्च मां भवान्। प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः
धर्मलोभपरीतेन न च वक्ष्ये कथंचन। सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्
प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः। तदाह्वाननिमित्तं च वालिनो हेममालिनः
सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः। जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः। रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्। तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः। द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः। पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः
ततः स जीमूतकृतप्रणादो नादं ह्यमुञ्चत् त्वरया प्रतीतः। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः। शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्। मदश्चैकपदे नष्टः क्रोधश्चापादितो महान्
ततो रोषपरीताङ्गो वाली स कनकप्रभः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः। भात्युत्पतितपद्माभः समृणाल इव ह्रदः
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः। वेगेन च पदन्यासैर्दारयन्निव मेदिनीम्
तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा। उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः
साधु क्रोधमिमं वीर नदीवेगमिवागतम्। शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्
काल्यमेतेन संग्रामं करिष्यसि च वानर। वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते
सहसा तव निष्क्रामो मम तावन्न रोचते। श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते
पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि। निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः। इहैत्य पुनराह्वानं शङ्कां जनयतीव मे
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः। निनादस्य च संरम्भो नैतदल्पं हि कारणम्
नासहायमहं मन्ये सुग्रीवं तमिहागतम्। अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः। नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः। प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ। इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ। स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः। निवासवृक्षः साधूनामापन्नानां परा गतिः
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्। ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः