वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसंघातविपुलः पर्यन्तकदलीवृतः
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्
अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तैवासन्नधःशीर्षा नियतं जलशायिनः
सप्तरात्रे कृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते। वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव। लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्। न तेषामशुभं किंचिच्छरीरे राम विद्यते
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्। ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः। पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने
विसार्य सर्वतो दृष्टिं कानने काननप्रियः। सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्
ततस्तु निनदं घोरं कृत्वा युद्धाय चाह्वयत्। परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्
गर्जन्निव महामेघो वायुवेगपुरःसरः। अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्। प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा
सफलां कुरु तां क्षिप्रं लतां काल इवागतः। एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः
तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः। कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव। शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया
विपरीत इवाकाशे सूर्यो नक्षत्रमालया। अद्य वालिसमुत्थं ते भयं वैरं च वानर
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे। मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्