दत्ताभयवधो नाम पातकं महदद्भुतम्। अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्। तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे। निरस्तमिषुणैकेन चेष्टमानं महीतले
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर। येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्। कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्। लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्
स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया। मालयेव बलाकानां ससंध्य इव तोयदः
विभ्राजमानो वपुषा रामवाक्यसमाहितः। जगाम सह रामेण किष्किन्धां पुनराप सः
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्
समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्। तारश्चैव महातेजा हरियूथपयूथपः
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः। शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्। वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान्
वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसंघातविपुलः पर्यन्तकदलीवृतः
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्
अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तैवासन्नधःशीर्षा नियतं जलशायिनः
सप्तरात्रे कृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव