तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्। ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्। वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो व्रजे
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः। करुणं दीनया वाचा राघवः पुनरब्रवीत्
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्। कारणं येन बाणोऽयं स मया न विसर्जितः
अलंकारेण वेषेण प्रमाणेन गतेन च। त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर। विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम। नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्
जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः। मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया
त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया। मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर
दत्ताभयवधो नाम पातकं महदद्भुतम्। अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्। तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे। निरस्तमिषुणैकेन चेष्टमानं महीतले
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर। येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्। कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्। लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्
स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया। मालयेव बलाकानां ससंध्य इव तोयदः
विभ्राजमानो वपुषा रामवाक्यसमाहितः। जगाम सह रामेण किष्किन्धां पुनराप सः
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्
समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्। तारश्चैव महातेजा हरियूथपयूथपः
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः। शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्। वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान्