सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात्। गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्। गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः। जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ
ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत। अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना। अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः। वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः। मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः
राघवोऽपि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत् सुग्रीवो यत्र वानरः
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्। ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्। वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो व्रजे
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः। करुणं दीनया वाचा राघवः पुनरब्रवीत्
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्। कारणं येन बाणोऽयं स मया न विसर्जितः
अलंकारेण वेषेण प्रमाणेन गतेन च। त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर। विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम। नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्
जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः। मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया
त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया। मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर
दत्ताभयवधो नाम पातकं महदद्भुतम्। अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्। तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे। निरस्तमिषुणैकेन चेष्टमानं महीतले
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर। येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्। कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्। लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्
स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया। मालयेव बलाकानां ससंध्य इव तोयदः
विभ्राजमानो वपुषा रामवाक्यसमाहितः। जगाम सह रामेण किष्किन्धां पुनराप सः
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्