लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव। क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्। आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्
स एव संशयस्तात तव तस्य च यद्बलम्। सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले
कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम्। आकर्णपूर्णमायम्य विसृजस्व महाशरम्
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति। अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया
यथा हि तेजःसु वरः सदारवि- र्यथा हि शैलो हिमवान् महाद्रिषु। यथा चतुष्पात्सु च केसरी वर- स्तथा नराणामसि विक्रमे वरः
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-
एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः। भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह
सायकस्तु मुहूर्तेन सालान् भित्त्वा महाजवः। निष्पत्य च पुनस्तूणं तमेव प्रविवेश ह
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः। रामस्य शरवेगेन विस्मयं परमं गतः
स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः। सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्
सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ। समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो
येन सप्त महासाला गिरिर्भूमिश्च दारिताः। बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः
अद्य मे विगतः शोकः प्रीतिरद्य परा मम। सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्। वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः
अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः। गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्। वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने
सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात्। गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्। गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः। जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ
ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत। अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना। अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः। वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः। मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः
राघवोऽपि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत् सुग्रीवो यत्र वानरः