एतदस्यासमं वीर्यं मया राम प्रकाशितम्। कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत्। कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा। एवमेकैकशो वाली विव्याधाथ स चासकृत्
रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम्। वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण। उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्। ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्
शूरश्च शूरमानी च प्रख्यातबलपौरुषः। बलवान् वानरो वाली संयुगेष्वपराजितः
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि। यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्। विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम्
उद्विग्नः शङ्कितश्चाहं विचरामि महावने। अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल। त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः। अप्रत्यक्षं तु मे वीर्यं समरे तव राघव
न खल्वहं त्वां तुलये नावमन्ये न भीषये। कर्मभिस्तस्य भीमैश्च कातर्यं जनितं मम
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः। सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्
तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः। स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर। प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते
एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः। राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्। असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्। लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम्। हरीणामग्रतो वीरमिदं वचनमर्थवत्
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे। परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव। क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्। आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्
स एव संशयस्तात तव तस्य च यद्बलम्। सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले
कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम्। आकर्णपूर्णमायम्य विसृजस्व महाशरम्
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति। अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया
यथा हि तेजःसु वरः सदारवि- र्यथा हि शैलो हिमवान् महाद्रिषु। यथा चतुष्पात्सु च केसरी वर- स्तथा नराणामसि विक्रमे वरः
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-
एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः। भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह