तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः। प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति
तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः। क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम्
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना। कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः
इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः। महिषं पर्वताकारं गतासुं पतितं भुवि
स तु विज्ञाय तपसा वानरेण कृतं हि तत्। उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्। वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः
क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरीं तनुम्। समन्तादाश्रमं पूर्णं योजनं मामकं यदि
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति। ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम्। तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम्
वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते। पत्राङ्कुरविनाशाय फलमूलाभवाय च
दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्। बहुवर्षसहस्राणि स वै शैलो भविष्यति
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम्। निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा वालिरब्रवीत्
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः। मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्
ततस्ते कारणं सर्वं तथा शापं च वालिनः। शशंसुर्वानराः सर्वे वालिने हेममालिने
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्। स महर्षिं समासाद्य याचते स्म कृताञ्जलिः
महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति। शापधारणभीतस्तु वाली विह्वलतां गतः
ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम्। प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्। विचरामि सहामात्यो विषादेन विवर्जितः
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते। वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः। यत्रैकं घटते वाली निष्पत्रयितुमोजसा
एतदस्यासमं वीर्यं मया राम प्रकाशितम्। कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत्। कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा। एवमेकैकशो वाली विव्याधाथ स चासकृत्
रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम्। वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण। उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्। ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्
शूरश्च शूरमानी च प्रख्यातबलपौरुषः। बलवान् वानरो वाली संयुगेष्वपराजितः
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि। यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्। विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम्
उद्विग्नः शङ्कितश्चाहं विचरामि महावने। अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः