तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः
यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः। तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः
हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः। अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम्
वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान्। अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्
स समर्थो महाप्राज्ञस्तव युद्धविशारदः। द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि। स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि
श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः। जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः। प्रावृषीव महामेघस्तोयपूर्णो नभस्तले
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः। ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा
समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः। विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः। निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमा
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम्। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसे। दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल
तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि। मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्। गृह्यतामुदयः स्वैरं कामभोगेषु वानर
दीयतां सम्प्रदानं च परिष्वज्य च वानरान्। सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनम्
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे। क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः
यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम्। हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम्
स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम्। विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे। मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्
तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्। पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्। आविध्यत तथा वाली विनदन् कपिकुञ्जरः
बलाद् व्यापादयांचक्रे ननर्द च महास्वनम्। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः
तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः। युद्धं समभवद् घोरं दुन्दुभेर्वालिनस्तथा
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः। मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा
परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा। आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत्। युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा
स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः। पपात च महाबाहुः क्षितौ पञ्चत्वमागतः
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्। चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्