यावत् तं नहि पश्येयं तव भार्यापहारिणम्। तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः
आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे। त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्
तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः। त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः
वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या। तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्
समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम्। क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि। ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः। बलं नागसहस्रस्य धारयामास वीर्यवान्
स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः। जगाम स महाकायः समुद्रं सरितां पतिम्
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्। मम युद्धं प्रयच्छेति तमुवाच महार्णवम्
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः। अब्रवीद् वचनं राजन्नसुरं कालचोदितम्
शैलराजो महारण्ये तपस्विशरणं परम्। शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः
महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः। स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः। हिमवद्वनमागम्य शरश्चापादिव च्युतः
ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः। हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल। रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम्
तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः
यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः। तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः
हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः। अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम्
वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान्। अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्
स समर्थो महाप्राज्ञस्तव युद्धविशारदः। द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि। स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि
श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः। जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः। प्रावृषीव महामेघस्तोयपूर्णो नभस्तले
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः। ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा
समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः। विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा