मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्। विदितं वो मया रात्रौ मायावी स महासुरः
मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा। तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः। स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः
प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ। अभिद्रुतस्तु वेगेन विवेश स महाबिलम्
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्। अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्। बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्
स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम्। तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा
स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः। निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्। पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले
सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम्। निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम्
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः
पादप्रहारैस्तु मया बहुभिः परिपातितम्। ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः
तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः। सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः। तदा निर्वासयामास वाली विगतसाध्वसः
तेनाहमपविद्धश्च हृतदारश्च राघव। तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम्
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे
एतत्ते सर्वमाख्यातं वैरानुकथनं महत्। अनागसा मया प्राप्तं व्यसनं पश्य राघव
वालिनश्च भयात् तस्य सर्वलोकभयापह। कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्। वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव
अमोघाः सूर्यसंकाशा निशिता मे शरा इमे। तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः
यावत् तं नहि पश्येयं तव भार्यापहारिणम्। तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः
आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे। त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्
तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः। त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः
वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या। तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्
समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम्। क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि। ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः