स तु निर्धूय सर्वान् नो निर्जगाम महाबलः। ततोऽहमपि सौहार्दान्निःसृतो वालिना सह
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा
स तृणैरावृतं दुर्गं धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः। मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः। यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः। शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः। स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः। भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम्। सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः। न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्। पिधाय च बिलद्वारं शिलया गिरिमात्रया
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे। गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम्
ततोऽहं तैः समागम्य समेतैरभिषेचितः। राज्यं प्रशासतस्तस्य न्यायतो मम राघव
आजगाम रिपुं हत्वा दानवं स तु वानरः। अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्। निग्रहे च समर्थस्य तं पापं प्रति राघव
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता। हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा
मानयंस्तं महात्मानं यथावच्चाभिवादयम्। उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो। अपि वाली मम क्रोधान्न प्रसादं चकार सः
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्। अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्। छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्
आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप। दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम्
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा
तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः। विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च
अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि। त्वमेव राजा मानार्हः सदा चाहं यथा पुरा
राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः। सामात्यपौरनगरं स्थितं निहतकण्टकम्
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्। मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया। स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह। प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्