शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव। नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे। अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः। सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते
संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते। स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः
तद्विनाशेऽपि मे दुःखं प्रमृष्टं स्यादनन्तरम्। सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्
एष मे राम शोकान्तः शोकार्तेन निवेदितः। दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः
श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत्। किं निमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर। आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम्
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्। वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः। सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना। प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे। वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे नवमः सर्गः ॥४-
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः। पितुर्बहुमतो नित्यं मम चापि तथा पुरा
पितर्युपरते तस्मिन् ज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरो राज्ये कृतः परमसम्मतः
राज्यं प्रशासतस्तस्य पितृपैतामहं महत्। अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे
प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम्। श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा
स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम्। वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः। ततोऽहमपि सौहार्दान्निःसृतो वालिना सह
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा
स तृणैरावृतं दुर्गं धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः। मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः। यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः। शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः। स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः। भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम्। सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः। न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः