सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव। यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान्
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्। निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर
रजतं वा सुवर्णं वा शुभान्याभरणानि च। अविभक्तानि साधूनामवगच्छन्ति साधवः
धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ। वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्
तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम्। लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्। सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्
स ददर्श ततः सालमविदूरे हरीश्वरः। सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्
तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम्। रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्। शालशाखां समुत्पाट्य विनीतमुपवेशयत्
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा। सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा। उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम्
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः। ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः
सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव
वालिनो मे भयार्तस्य सर्वलोकाभयंकर। ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः। प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव
उपकारफलं मित्रमपकारोऽरिलक्षणम्। अद्यैव तं वधिष्यामि तव भार्यापहारिणम्
इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः। कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः
कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः। सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव
वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्बिषम्। शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः। वयस्य इति कृत्वा हि त्वय्यहं परिदेवये
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्। कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम्
वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम्। दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः। बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम्
बाष्पवेगं तु सहसा नदीवेगमिवागतम्। धारयामास धैर्येण सुग्रीवो रामसंनिधौ
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे। विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान्
पुराहं वालिना राम राज्यात् स्वादवरोपितः। परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी। सुहृदश्च मदीया ये संयता बन्धनेषु ते
यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव। बहुशस्तप्रयुक्ताश्च वानरा निहता मया