बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते। स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले
एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्। तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्
हितं वयस्यभावेन ब्रूहि नोपदिशामि ते। वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः। मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्
कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्। वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव
मया च यदिदं वाक्यमभिमानात् समीरितम्। तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम्
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ। उभावन्योन्यसदृशं सुखं दुःखमभाषताम्
महानुभावस्य वचो निशम्य हरिर्नृपाणामधिपस्य तस्य। कृतं स मेने हरिवीरमुख्य- स्तदा च कार्यं हृदयेन विद्वान्
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-
परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः। लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत्
सर्वथाहमनुग्राह्यो देवतानां न संशयः। उपपन्नो गुणोपेतः सखा यस्य भवान् मम
शक्यं खलु भवेद् राम सहायेन त्वयानघ। सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव। यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान्
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्। निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर
रजतं वा सुवर्णं वा शुभान्याभरणानि च। अविभक्तानि साधूनामवगच्छन्ति साधवः
धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ। वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्
तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम्। लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्। सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्
स ददर्श ततः सालमविदूरे हरीश्वरः। सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्
तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम्। रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्। शालशाखां समुत्पाट्य विनीतमुपवेशयत्