सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः। हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ
हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम्। निशश्वास भृशं सर्पो बिलस्थ इव रोषितः
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामः समुपचक्रमे
पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया। उत्तरीयमिदं भूमौ शरीराद् भूषणानि च
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। नाहं जानामि केयूरे नाहं जानामि कुण्डले
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्। ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया। रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता
क्व वा वसति तद् रक्षो महद् व्यसनदं मम। यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान्
हरता मैथिलीं येन मां च रोषयता ध्रुवम्। आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्
मम दयिततमा हृता वनाद् रजनिचरेण विमथ्य येन सा। कथय मम रिपुं तमद्य वै प्लवगपते यमसंनिधिं नयामि
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः
न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम। करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्
रावणं सगणं हत्वा परितोष्यात्मपौरुषम्। तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर। त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्
मयापि व्यसनं प्राप्तं भार्याविरहजं महत्। नाहमेवं हि शोचामि धैर्यं न च परित्यजे
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि। मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि
व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे। विमृशंश्च स्वयाबुद्ध्या धृतिमान् नावसीदति
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते। स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले
एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्। तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्
हितं वयस्यभावेन ब्रूहि नोपदिशामि ते। वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः। मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्
कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः