तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव। तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः
शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम्। स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम्। सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्
तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम्। तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम्
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि। सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-
पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम्। अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव
रक्षसापहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्। भार्यावियोगजं दुःखं प्रापितस्तेन रक्षसा
भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे। अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव
इदं तथ्यं मम वचस्त्वमवेहि च राघव। न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा। त्यज शोकं महाबाहो तां कान्तामानयामि ते
अनुमानात् तु जानामि मैथिली सा न संशयः। ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा
क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम्। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम्। उत्तरीयं तया त्यक्तं शुभान्याभरणानि च
तान्यस्माभिर्गृहीतानि निहितानि च राघव। आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि
तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम्। आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्। प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया
उत्तरीयं गृहीत्वा तु स तान्याभरणानि च। इदं पश्येति रामाय दर्शयामास वानरः
ततो गृहीत्वा वासस्तु शुभान्याभरणानि च। अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः। हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ
हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम्। निशश्वास भृशं सर्पो बिलस्थ इव रोषितः
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामः समुपचक्रमे
पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया। उत्तरीयमिदं भूमौ शरीराद् भूषणानि च
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। नाहं जानामि केयूरे नाहं जानामि कुण्डले
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्। ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया। रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता
क्व वा वसति तद् रक्षो महद् व्यसनदं मम। यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान्
हरता मैथिलीं येन मां च रोषयता ध्रुवम्। आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्