श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः। दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्
भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः। आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो। यत्त्वमिच्छसि सौहार्दं वानरेण मया सह
रोचते यदि मे सख्यं बाहुरेष प्रसारितः। गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा
एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। सम्प्रहृष्टमना हस्तं पीडयामास पाणिना
हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम्। ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः
काष्ठयोः स्वेन रूपेण जनयामास पावकम्। दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः। ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ। ततः सुप्रीतमनसौ तावुभौ हरिराघवौ
अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः। त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्। ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः। लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्। ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः। अहं विनिकृतो राम चरामीह भयार्दितः
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः। सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव। वालिनो मे महाभाग भयार्तस्याभयं कुरु
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा। एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव। उपकारफलं मित्रं विदितं मे महाकपे
वालिनं तं वधिष्यामि तव भार्यापहारिणम्। अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव। तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः
शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम्। स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम्। सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्
तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम्। तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम्
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि। सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-
पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम्। अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव
रक्षसापहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्। भार्यावियोगजं दुःखं प्रापितस्तेन रक्षसा
भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे। अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव