ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः। जगामादाय तौ वीरौ हरिराजाय राघवौ
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः। पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः। गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम्
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-
ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ
अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः। धर्मे निगदितश्चैव पितुर्निर्देशकारकः
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः। दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः। रावणेन हृता भार्या स त्वां शरणमागतः
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ। प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ
श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः। दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्
भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः। आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो। यत्त्वमिच्छसि सौहार्दं वानरेण मया सह
रोचते यदि मे सख्यं बाहुरेष प्रसारितः। गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा
एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। सम्प्रहृष्टमना हस्तं पीडयामास पाणिना
हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम्। ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः
काष्ठयोः स्वेन रूपेण जनयामास पावकम्। दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः। ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ। ततः सुप्रीतमनसौ तावुभौ हरिराघवौ
अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः। त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्। ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः। लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्। ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः। अहं विनिकृतो राम चरामीह भयार्दितः
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः। सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव। वालिनो मे महाभाग भयार्तस्याभयं कुरु
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा। एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव। उपकारफलं मित्रं विदितं मे महाकपे
वालिनं तं वधिष्यामि तव भार्यापहारिणम्। अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः