भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः। यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः। प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः। आचचक्षे महात्मानं रामं दशरथात्मजम्
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः। चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन्
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन। स तु सर्वेषु भूतेषु पितामह इवापरः
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः। ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा। राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः
भार्यया च महाभाग सीतयानुगतो वशी। दिनक्षये महातेजाः प्रभयेव दिवाकरः
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण विहीनस्य वनवासे रतस्य च
रक्षसापहृता भार्या रहिते कामरूपिणा। तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः। आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्। एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः। अहं चैव च रामश्च सुग्रीवं शरणं गतौ
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः। तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा। गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः। मानिताः सततं राज्ञा सदा दशरथेन वै
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः। सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः
शोकाभिभूते रामे तु शोकार्ते शरणं गते। कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्। हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः। द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः
स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना। हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः। सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा। बभाषे साधु गच्छामः सुग्रीवमिति राघवम्
एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः। प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्
कपिः कथयते हृष्टो यथायं मारुतात्मजः। कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते। नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः