संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम्। उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम्
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया। कस्य नाराध्यते चित्तमुद्यतासेररेरपि
एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु। सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्। अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः। तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्
यथा ब्रवीषि हनुमन् सुग्रीववचनादिह। तत् तथा हि करिष्यावो वचनात् तव सत्तम
तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः। श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः
भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः। यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः। प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः। आचचक्षे महात्मानं रामं दशरथात्मजम्
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः। चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन्
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन। स तु सर्वेषु भूतेषु पितामह इवापरः
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः। ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा। राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः
भार्यया च महाभाग सीतयानुगतो वशी। दिनक्षये महातेजाः प्रभयेव दिवाकरः
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण विहीनस्य वनवासे रतस्य च
रक्षसापहृता भार्या रहिते कामरूपिणा। तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः। आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्। एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः। अहं चैव च रामश्च सुग्रीवं शरणं गतौ
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः। तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा। गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः। मानिताः सततं राज्ञा सदा दशरथेन वै