पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ। अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ
यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम्। विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ। आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः। उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्। इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते। सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः। महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव। एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः
सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुङ्गवः। वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनुमान् नाम वानरः
युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति। तस्य मां सचिवं वित्तं वानरं पवनात्मजम्
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात्। ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम्
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ। वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किंचन
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्। प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः। तमेव कांक्षमाणस्य ममान्तिकमिहागतः
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्। वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं विभाषितुम्
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरतानेन न किंचिदपशब्दितम्
न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित्
अविस्तरमसंदिग्धमविलम्बितमव्यथम्। उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम्
संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम्। उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम्
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया। कस्य नाराध्यते चित्तमुद्यतासेररेरपि
एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु। सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्। अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः। तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्
यथा ब्रवीषि हनुमन् सुग्रीववचनादिह। तत् तथा हि करिष्यावो वचनात् तव सत्तम
तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः। श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः