आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा
ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः। संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः
ततस्तु भयसंत्रस्तं वालिकिल्बिषशङ्कितम्। उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः
यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्
यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर। नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ। कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ
वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः। विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः। भवन्त परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः
तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम। इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव। प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम। व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः। चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ
तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य। महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबली सलक्ष्मणः
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः। पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ
कपिरूपं परित्यज्य हनुमान् मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः
आबभाषे च तौ वीरौ यथावत् प्रशशंस च। सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ। राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ। त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः। इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ। निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः
सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ। शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ। हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ
प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः। राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ