उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्। सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम्
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु। उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्
त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुध्यसे
एवं सम्बोधितस्तेन शोकोपहतचेतनः। त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत्
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः। रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम्
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च। उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा। स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव
तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम्
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ। दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्। त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु- र्महौजसौ राघवलक्ष्मणौ तौ
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्
नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम्
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे
एवमेकायनगताः प्लवमाना गिरेर्गिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा
ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः। संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः
ततस्तु भयसंत्रस्तं वालिकिल्बिषशङ्कितम्। उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः
यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्
यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर। नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ। कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ