प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम्। नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत
किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज। क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम्
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्। नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्
इति रामं महात्मानं विलपन्तमनाथवत्। उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम। नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने। अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा। सर्वथा रावणस्तात न भविष्यति राघव
प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति
यदि याति दितेर्गर्भं रावणं सह सीतया। तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्। सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम्
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु। उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्
त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुध्यसे
एवं सम्बोधितस्तेन शोकोपहतचेतनः। त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत्
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः। रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम्
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च। उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा। स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव
तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम्
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ। दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्। त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु- र्महौजसौ राघवलक्ष्मणौ तौ
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्
नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम्
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे
एवमेकायनगताः प्लवमाना गिरेर्गिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्