हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्। पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः
आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः। कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्। रमते कान्तया सार्धं काममुद्दीपयन्निव
मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम्। स्थाने जगति विख्याता गुणास्तस्या मनोरमाः
यदि दृश्येत सा साध्वी यदि चेह वसेमहि। स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम
न ह्येवं रमणीयेषु शाद्वलेषु तया सह। रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत्
अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः। काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्। चक्रवाकानुचरितां कारण्डवनिषेविताम्
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम्। अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्। मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्। व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले। पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम
जीवेयं खलु सौमित्रे मया सह सुमध्यमा। सेवेत यदि वैदेही पम्पायाः पवनं शुभम्
पद्मसौगन्धिकवहं शिवं शोकविनाशनम्। धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम्
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान् विवशा जनकात्मजा
किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम्। जनकं पृष्टसीतं तं कुशलं जनसंसदि
या मामनुगता मन्दं पित्रा प्रस्थापितं वनम्। सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया
तया विहीनः कृपणः कथं लक्ष्मण धारये। या मामनुगता राज्याद् भ्रष्टं विहतचेतसम्
तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम्। अपश्यतो मुखं तस्याः सीदतीव मतिर्मम
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्। वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण
प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम्। नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत
किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज। क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम्
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्। नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्
इति रामं महात्मानं विलपन्तमनाथवत्। उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम। नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने। अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा। सर्वथा रावणस्तात न भविष्यति राघव
प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति
यदि याति दितेर्गर्भं रावणं सह सीतया। तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते