सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु। किंनरा नरशार्दूल विचरन्ति यतस्ततः
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता
जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि। पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण
पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम्। अपश्यतो मे वैदेहीं जीवितं नाभिरोचते
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्
शक्यो धारयितुं कामो भवेदभ्यागतो मया। यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः
यानि स्म रमणीयानि तया सह भवन्ति मे। तान्येवारमणीयानि जायन्ते मे तया विना
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते। सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण
पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः। निःश्वास इव सीताया वाति वायुर्मनोहरः
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु। पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम्
अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम्
गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः। निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः
पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः। मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः
केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा। चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः। लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः। चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु। केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा। तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा
हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून्। वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान्
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः। पादपात् पादपं गच्छन् शैलाच्छैलं वनाद् वनम्
वाति नैकरसास्वादसम्मोदित इवानिलः। केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः। इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि
रागरक्तो मधुकरः कुसुमेष्वेव लीयते। निलीय पुनरुत्पत्य सहसान्यत्र गच्छति। मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ
इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता। स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु। विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः