संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः। अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव। शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि। तामेव मनसा रामां मयूरोऽप्यनुधावति
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव। मयूरस्य वने नूनं रक्षसा न हृता प्रिया
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया। मम त्वयं विना वासः पुष्पमासे सुदुःसहः
पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि। यदेषा शिखिनी कामाद् भर्तारमभिवर्तते
ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नापहृता भवेत्
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे। पुष्पभारसमृद्धानां वनानां शिशिरात्यये
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया। निष्फलानि महीं यान्ति समं मधुकरोत्करैः
नदन्ति कामं शकुना मुदिताः सङ्घशः कलम्। आह्वयन्त इवान्योन्यं कामोन्मादकरा मम
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा
नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया। नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते। नालं वर्तयितुं सीता साध्वी मद्विरहं गता
मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावः सीतायां सर्वथा विनिवेशितः
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः। तां विचिन्तयतः कान्तां पावकप्रतिमो मम
सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतः स विना सीतां शोकसंजननो मम
तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा। वायसः पादपगतः प्रहृष्टमभिकूजति
एष वै तत्र वैदेह्या विहगः प्रतिहारकः। पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति
पश्य लक्ष्मण संनादं वने मदविवर्धनम्। पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम्
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्। षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम्
कामिनामयमत्यन्तमशोकः शोकवर्धनः। स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः। विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु। किंनरा नरशार्दूल विचरन्ति यतस्ततः
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता
जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः