जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥१-२७-
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा । इमे च परमोदार किंकरास्तव राघव ॥१-२७-
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै । ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥१-२७-
ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥१-२७-
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१-२८-
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि । अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः । संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥१-२८-
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ । ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-
यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा । शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा । सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥१-२८-
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ । परवीरं रतिं चैव धनधान्यौ च राघव ॥१-२८-
कामरूपं कामरुचिं मोहमावरणं तथा । जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः । इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१-२८-
गम्यतामिति तानाह यथेष्टं रघुनन्दनः । मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१-२८-
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-
किमेतन्मेघसंकाशं पर्वतस्याविदूरतः । वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-
दर्शनीयं मृगाकीर्णं मनोहरमतीव च । नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् । अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् । संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-
तव यज्ञस्य विघ्नाय दुरात्मानो महामुने । भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-
अथ तस्याप्रमेयस्य वचनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥१-२९-
इह राम महाबाहो विष्णुर्देवनमस्कृतः । वर्षाणि सुबहूनीह तथा युगशतानि च ॥१-२९-
एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥१-२९-