पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्। सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्
पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः
विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते
मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्। शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः
तेन विक्षिपतात्यर्थं पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः
स एव सुखसंस्पर्शो वाति चन्दनशीतलः। गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः
अमी पवनविक्षिप्ता विनदन्तीव पादपाः। षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः। संसक्तशिखराः शैला विराजन्ति महाद्रुमैः
पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः। अमी मधुकरोत्तंसाः प्रगीता इव पादपाः
सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः। हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव
अयं वसन्तः सौमित्रे नानाविहगनादितः। सीतया विप्रहीणस्य शोकसंदीपनो मम
मां हि शोकसमाक्रान्तं संतापयति मन्मथः। हृष्टं प्रवदमानश्च समाह्वयति कोकिलः
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे। प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया। मामाहूय प्रमुदिताः परमं प्रत्यनन्दत
एवं विचित्राः पतगा नानारावविराविणः। वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः
विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः। भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः
अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह। दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः। अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति। नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्। अयं हि रुचिरस्तस्याः कालो रुचिरकाननः
कोकिलाकुलसीमान्तो दयिताया ममानघ। मन्मथायाससम्भूतो वसन्तगुणवर्धितः
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव। अपश्यतस्तां वनितां पश्यतो रुचिरान् द्रुमान्
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति। अदृश्यमाना वैदेही शोकं वर्धयतीह मे
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः। मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्
संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः। अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव। शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि। तामेव मनसा रामां मयूरोऽप्यनुधावति
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव। मयूरस्य वने नूनं रक्षसा न हृता प्रिया