ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः। हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः। सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः। कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः। विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः
क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम्। अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन
thumb|ध्यानश्लोकः|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-
तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे। स कामवशमापन्नः सौमित्रिमिदमब्रवीत्
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका। फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्। यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै। भरतस्य च दुःखेन वैदेह्या हरणेन च
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना। व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा
नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना। सर्पव्यालानुचरिता मृगद्विजसमाकुला
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्
पुष्पभारसमृद्धानि शिखराणि समन्ततः। लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः। गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्। सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्
पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः
विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते
मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्। शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः
तेन विक्षिपतात्यर्थं पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः
स एव सुखसंस्पर्शो वाति चन्दनशीतलः। गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः
अमी पवनविक्षिप्ता विनदन्तीव पादपाः। षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः। संसक्तशिखराः शैला विराजन्ति महाद्रुमैः
पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः। अमी मधुकरोत्तंसाः प्रगीता इव पादपाः
सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः। हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव
अयं वसन्तः सौमित्रे नानाविहगनादितः। सीतया विप्रहीणस्य शोकसंदीपनो मम
मां हि शोकसमाक्रान्तं संतापयति मन्मथः। हृष्टं प्रवदमानश्च समाह्वयति कोकिलः
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे। प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया। मामाहूय प्रमुदिताः परमं प्रत्यनन्दत