आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः। समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः। एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्
स रामो विविधान् वृक्षान् सरांसि विविधानि च। पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम्। मतङ्गसरसं नाम ह्रदं समवगाहत
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ। स तु शोकसमाविष्टो रामो दशरथात्मजः
विवेश नलिनीं रम्यां पंकजैश्च समावृताम्। तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम्। स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम्। सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्
किंनरोरगगन्धर्वयक्षराक्षससेविताम्। नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः। नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्। पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह। विललाप च तेजस्वी रामो दशरथात्मजः
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा। पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा। अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम्। अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः। हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः। सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः। कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः। विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः
क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम्। अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन
thumb|ध्यानश्लोकः|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-
तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे। स कामवशमापन्नः सौमित्रिमिदमब्रवीत्
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका। फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्। यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै। भरतस्य च दुःखेन वैदेह्या हरणेन च
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना। व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा
नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना। सर्पव्यालानुचरिता मृगद्विजसमाकुला
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्
पुष्पभारसमृद्धानि शिखराणि समन्ततः। लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः। गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः