देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै। पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया। तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्ष्याम्य् एतत् कलेवरम्
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्। मुनीनामाश्रमो येषामहं च परिचारिणी
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत्
तामुवाच ततो रामः शबरीं संशितव्रताम्। अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम्
इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा। अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह। दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना। विराजयन्ती तं देशं विद्युत्सौदामनी यथा
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः। तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा। लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्। हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्। विश्वस्तमृगशार्दूलो नानाविहगसेवितः
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण। उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम्। तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति। तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते। यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः। अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम्। इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः। आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः। समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः। एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्
स रामो विविधान् वृक्षान् सरांसि विविधानि च। पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम्। मतङ्गसरसं नाम ह्रदं समवगाहत
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ। स तु शोकसमाविष्टो रामो दशरथात्मजः
विवेश नलिनीं रम्यां पंकजैश्च समावृताम्। तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम्। स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम्। सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्
किंनरोरगगन्धर्वयक्षराक्षससेविताम्। नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः। नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव