शयानः पुरुषो राम तस्य शैलस्य मूर्धनि। यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति
यस्त्वेनं विषमाचारः पापकर्माधिरोहति। तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्। क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम्
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः। प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम्। अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम्
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः। ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि। राम तस्य तु शैलस्य महती शोभते गुहा
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्। तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ४० बहुमूलफलो रम्यो नानानगसमाकुलः। तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति। कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्। तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके। गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत् स च
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा
स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्वरसर्वदेहः। निदर्शयन् राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच
thumb|चतुःसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने। आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ
तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान्। वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ
कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ। पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्। अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्। सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः। पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि। तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम्
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः। कच्चित्ते नियतः कोप आहारश्च तपोधने
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्। कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया। अद्य मे सफलं जन्म गुरवश्च सुपूजिताः
अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति। त्वयि देववरे राम पूजिते पुरुषर्षभ
तवाहं चक्षुषा सौम्य पूता सौम्येन मानद। गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः। इतस्ते दिवमारूढा यानहं पर्यचारिषम्
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः। आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः। तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि