वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः। नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः। रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान्। निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान्
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति। भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये
पद्मगन्धि शिवं वारि सुखशीतमनामयम्। उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति। स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः। अपां लोभादुपावृत्तान् वृषभानिव नर्दतः
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम। सायाह्ने विचरन् राम विटपी माल्यधारिणः
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि। सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः
उत्पलानि च फुल्लानि पङ्कजानि च राघव। न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव। मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः। ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः
तानि माल्यानि जातानि मुनीनां तपसा तदा। स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
तेषां गतानामद्यापि दृश्यते परिचारिणी। श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्। दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्। आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे। ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम्
मतङ्गवनमित्येव विश्रुतं रघुनन्दन। तस्मिन् नन्दनसंकाशे देवारण्योपमे वने
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः। ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः। उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि। यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति
यस्त्वेनं विषमाचारः पापकर्माधिरोहति। तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्। क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम्
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः। प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम्। अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम्
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः। ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि। राम तस्य तु शैलस्य महती शोभते गुहा
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्। तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ४० बहुमूलफलो रम्यो नानानगसमाकुलः। तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति। कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्। तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ