जम्बूप्रियालपनसा न्यग्रोधप्लक्षतिन्दुकाः। अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः। नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः। तानारुह्याथवा भूमौ पातयित्वा च तान् बलात्
फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः। तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्
नन्दनप्रतिमं चान्यत् कुरवस्तूत्तरा इव। सर्वकालफला यत्र पादपा मधुरस्रवाः
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा। फलभारनतास्तत्र महाविटपधारिणः
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः। तानारुह्याथवा भूमौ पातयित्वाथवा सुखम्
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति। चङ्क्रमन्तौ वरान् शैलान् शैलाच्छैलं वनाद् वनम्
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः। अशर्करामविभ्रंशां समतीर्थामशैवलाम्
राम संजातवालूकां कमलोत्पलशोभिताम्। तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः। नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः। रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान्। निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान्
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति। भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये
पद्मगन्धि शिवं वारि सुखशीतमनामयम्। उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति। स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः। अपां लोभादुपावृत्तान् वृषभानिव नर्दतः
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम। सायाह्ने विचरन् राम विटपी माल्यधारिणः
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि। सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः
उत्पलानि च फुल्लानि पङ्कजानि च राघव। न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव। मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः। ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः
तानि माल्यानि जातानि मुनीनां तपसा तदा। स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
तेषां गतानामद्यापि दृश्यते परिचारिणी। श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्। दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्। आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे। ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम्
मतङ्गवनमित्येव विश्रुतं रघुनन्दन। तस्मिन् नन्दनसंकाशे देवारण्योपमे वने
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः। ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः। उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः