एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्। मेदसा पच्यमानस्य मन्दं दहत पावकः
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः। अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः
ततश्चिताया वेगेन भास्वरो विरजाम्बरः। उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे। प्रभया च महातेजा दिशो दश विराजयन्
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत्। शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते। परिमृष्टो दशान्तेन दशाभागेन सेव्यते
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः। यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर। अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः। भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते। निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः। सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान्
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः। भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना
स ते सहायो मित्रं च सीतायाः परिमार्गणे। भविष्यति हि ते राम मा च शोके मनः कृथाः
भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव
अद्रोहाय समागम्य दीप्यमाने विभावसौ। न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्। शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्
कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति। स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः। संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्
कुरु राघव सत्येन वयस्यं वनचारिणम्। स हि स्थानानि कात्स्न्र्येन सर्वाणि कपिकुञ्जरः
नरमांसाशिनां लोके नैपुण्यादधिगच्छति। न तस्याविदितं लोके किंचिदस्ति हि राघव
यावत् सूर्यः प्रतपति सहस्रांशुः परंतप। स नदीर्विपुलान् शैलान् गिरिदुर्गाणि कन्दरान्
अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति। वानरांश्च महाकायान् प्रेषयिष्यति राघव
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्। अन्वेष्यति वरारोहां मैथिलीं रावणालये
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम्। प्लवङ्गमानामृषभस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे। वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः। प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः