कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः। एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्
प्रोवाच कुशलो वक्ता वक्तारमपि राघवम्। दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्
यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः। योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम्
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तु महावीर्यं सीता येन हृता तव
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव। स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः। तावन्मामवटे क्षिप्त्वा दह राम यथाविधि
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन। वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम्
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव। कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम
नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव। सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्। मेदसा पच्यमानस्य मन्दं दहत पावकः
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः। अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः
ततश्चिताया वेगेन भास्वरो विरजाम्बरः। उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे। प्रभया च महातेजा दिशो दश विराजयन्
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत्। शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते। परिमृष्टो दशान्तेन दशाभागेन सेव्यते
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः। यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर। अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः। भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते। निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः। सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान्
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः। भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना
स ते सहायो मित्रं च सीतायाः परिमार्गणे। भविष्यति हि ते राम मा च शोके मनः कृथाः
भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव
अद्रोहाय समागम्य दीप्यमाने विभावसौ। न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्। शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्
कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति। स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः