छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि। अनेन वपुषा तात वनेऽस्मिन् राजसत्तम
यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये। अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः। स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव
शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा। अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना। एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः
इदं जगाद वचनं लक्ष्मणस्य च पश्यतः। रावणेन हृता भार्या सीता मम यशस्विनी
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम्। नाममात्रं तु जानामि न रूपं तस्य रक्षसः
निवासं वा प्रभावं वा वयं तस्य न विद्महे। शोकार्तानामनाथानामेवं विपरिधावताम्
कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम्। काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते। स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः। एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्
प्रोवाच कुशलो वक्ता वक्तारमपि राघवम्। दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्
यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः। योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम्
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तु महावीर्यं सीता येन हृता तव
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव। स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः। तावन्मामवटे क्षिप्त्वा दह राम यथाविधि
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन। वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम्
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव। कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम
नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव। सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्। मेदसा पच्यमानस्य मन्दं दहत पावकः
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः। अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः
ततश्चिताया वेगेन भास्वरो विरजाम्बरः। उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे। प्रभया च महातेजा दिशो दश विराजयन्
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत्। शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते। परिमृष्टो दशान्तेन दशाभागेन सेव्यते
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः। यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर। अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्